संस्कृत-शब्दकोशः

शाणपाद शाणि

शाणाजीव

वाचस्पत्यम्

शाणाजीव ||‍ पु० शाणमाजीवति आ + जीव—अण् । अस्त्र- तीक्ष्णताकारके शिल्पिनि हेमच० ।


शब्दकल्पद्रुमः

शाणाजीवः || पुं, (शाणेन आजीवतीति । आ + जीव + अच् ।)
अस्त्रमार्जकः । पथा, —
“शाणाजीवः शस्त्रमार्जो भ्रमासक्तोऽसिधा- वकः ॥” इति हेमचन्द्रः ॥



Correction: