संस्कृत-शब्दकोशः

शाणीर शात

शाण्डिल्य

वाचस्पत्यम्

शाण्डिल्य ||‍ त्रि० शण्डिलस्यापत्यम् यञ् । गोत्रप्रवर्त्तके भक्तिशास्त्रकारके १ मुनिभेदे मेदि० । भक्तिशब्दे तन्मतं दिग्मात्रं दर्शितम् । तत्प्रियत्वात् २ बिल्ये अमरः ३ वह्निभेदे च मेदि० ।


शब्दकल्पद्रुमः

शाण्डिल्यः || पुं, विल्ववृक्षः । इत्यमरः ॥ (यथा, महागणपतिस्तोत्रे । ९ । “हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया बिभ्रत्याम्बुरुहे समं भधुरिपुस्ते शङ्खचक्रे वहन् ॥”)
वह्निभेदः । (शण्डिलस्य मुनेर्गोत्रापत्यमिति । शण्डिल + “गर्गादिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।)
मुनिविशेषः । इति मेदिनी ॥ स तु गोत्रकारः भक्तिसूत्रकारश्च । तत्सूत्र- भाष्याद्यश्लोको यथा, —
“प्रपद्य परमं देवं श्रीस्वप्नेश्वरसूरिणा । शाण्डिल्यशतसूत्रीयं भाष्यमाभाष्यतेऽधुना ॥”



Correction: