वाचस्पत्यम्
शातन || न० शो—णिच्—तङ् च ल्युट् । १ तनूकरणे २ विना- शते च “वसन्ते सर्वशस्यानां जायते पत्त्रशातनम्” इति अधिकरणमाला ।
शब्दकल्पद्रुमः
शातनं || क्ली कार्श्यम् । विनाशनम् । यथा, —
“वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥” इति सारमञ्जरी ॥ (छेदके, त्रि । यथा, रघुः । ३ । ४२ । “स पूर्व्वतः पर्व्वतपक्षशातनं दशर्श देवं नरदेवसम्भवः ॥”)