संस्कृत-शब्दकोशः

शातकौम्भ शातपत्त्रक

शातन

वाचस्पत्यम्

शातन ||‍ न० शो—णिच्—तङ् च ल्युट् । १ तनूकरणे २ विना- शते च “वसन्ते सर्वशस्यानां जायते पत्त्रशातनम्” इति अधिकरणमाला ।


शब्दकल्पद्रुमः

शातनं || क्ली कार्श्यम् । विनाशनम् । यथा, —
“वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥” इति सारमञ्जरी ॥ (छेदके, त्रि । यथा, रघुः । ३ । ४२ । “स पूर्व्वतः पर्व्वतपक्षशातनं दशर्श देवं नरदेवसम्भवः ॥”)



Correction: