वाचस्पत्यम्
शात्रव || पु० शत्रुरेव स्वार्थेऽण् । १ रिपौ अमरः । तस्य भावः तेषां संघो बा अण् । २ वैरे ३ रिपुसमूहे च न० ।
शब्दकल्पद्रुमः
शात्रवं || क्ली (शात्रोर्भावः समूहो वा । शत्रु + अण् ।)
शत्रुभावः । शत्रुसंहतिः । इति मेदिनी ॥ (शत्रुसम्बन्धिनि, त्रि । यथा, रघुः । ४ । ४२ । “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवञ्च पपुर्यशः ॥”)
शब्दकल्पद्रुमः
शात्रवः || पुं, (शत्रुरेव । स्वार्थे अण् ।)
शत्रुः । इत्यमरः ॥ (यथा, माघे । १४ । ४४ । “तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥”)