वाचस्पत्यम्
शाद्वल || पु० शादाः सन्त्यत्र ड्वलच् । बहुलहरिततृणयुक्ते देशे अमरः ।
शब्दकल्पद्रुमः
शाद्वलः || त्रि (शाद + “नडशादात् ड्वलच् ।” ४ । २ । ८८ । इति ड्वलच् ।)
नवतृणबहुलदेशः । इत्यमरः ॥ शादो नवतृणं विद्यतेऽत्र शाद्बलः । शष्पवाचिन एव शादशब्दाद्वलः स्यात् न तु पङ्कयाचिनोऽनभिधानात् । इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ३० । १४ । “शाद्वलेषु यदा शिष्ये वनान्ते वनगोचरा । कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः ॥”)