वाचस्पत्यम्
शान || तेजने भ्वा० उभ० सक० सेट् स्वार्थे सन् । शीशांसति ते अशीशांसीत् अशीशांसिष्ट ।
वाचस्पत्यम्
शान || पु० शान—अच् शो निशाने इत्युक्तेरनित्यः सन् । अस्त्रादीनां तीक्ष्णताकारके यन्त्रभेदे भरतः ।
शब्दकल्पद्रुमः
शान || ञ तेजे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।)
शानस्तिक्ष्णीकरणम् । ञ, शीशांसति शीशांसते खड्गं कर्म्मकारः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शानः || पुं, शाणः । इत्यमरटीकायां भरतः ॥