संस्कृत-शब्दकोशः

शाब्दबोध शामन

शाब्दिक

वाचस्पत्यम्

शाब्दिक ||‍ पु० शब्दं शब्दसाघुताज्ञापकं शास्त्रं वेत्त्यधीते वा ठक् । ष्याकरणशास्त्रभिज्ञे ।


शब्दकल्पद्रुमः

शाब्दिकः || पुं, (शब्दं करोतीति । शब्द + “शब्द- दर्द्दुरं करोति ।” ४ । ४ । ३४ । इति ठक् ।)
शब्दशास्त्रवेत्ता । वैयाकरणः । आदिशाब्दिका यथा, —
“इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥” इति कविकल्पद्रुमः ॥ नव्यशाब्दिका यथा । क्रमदीश्वरः । सर्व्ववर्म्मा । पद्मनाभमिश्रः । वोपदेवः । सत्सर्व्वानन्दः । भरतमल्लिकप्रभृतयः ॥ शब्दसम्बन्धिनि, त्रि ॥



Correction: