वाचस्पत्यम्
शामित्र || न० शम—णिच् इत्रच् । १ पशुबन्धने । शमितुः कर्म—अण् । यज्ञार्थपशुहननकर्त्तृभावे २ तद्धनने च ।
शब्दकल्पद्रुमः
शामित्रं || क्ली यज्ञम् । पशुबन्धनम् । यज्ञपात्रम् । इति केचित् ॥ (शमितुरिदम् । शमितृ + अण् । पशुहिंसनम् । यथा, भागवते । १ । १६ । ८ । “इहोपहूतो भगवान् मृत्युः शामित्रकर्म्मणि । न कश्चिन्म्रियते तावद् यावदास्ते इहान्तकः ॥”)