संस्कृत-शब्दकोशः

शारङ्गी शारदा

शारद

वाचस्पत्यम्

शारद ||‍ न० शरदि भवम्—ऋत्वण् । १ श्वेतपद्मे राजनि० । २ कासे ३ बकुले ४ हरिन्मुद्गे च पु० राजनि० । ५ शरद्भवमात्रे त्रि० स्त्रियां ङीप् । शारदं श्वेतपद्ममस्त्यस्याः अच् । ५ सर- स्वत्यां स्त्री त्रिका० । ७ नूतने ८ अप्रतिभे त्रि० मेदि० । ९शालीने त्रि० विश्वः । १० दुर्गायां स्त्री टाप् “शारत्काले पुरा यस्मात् नवम्यां बोधिता सुरैः । शारदा सा समा- ख्याता पीठे लोके च नामतः” ति० त० । ११ वानरभेदे शब्दर० । १२ तोयपिप्पल्यां १३ सप्तच्छदे स्त्री मेदि० ङीप् एवं १४ कोजागरपुर्णिमायां स्त्री शब्दरत्ना० शरत्कालोने पूजादौ त्रि० स्त्रियां ङीप् । “शारदी चण्डिकापूजा त्रि- विधा परिकीर्त्तिता । सात्त्विकी राजसी चैव तामसी चेति तां शृणु” भविष्यपु० ।


शब्दकल्पद्रुमः

शारदं || क्ली (शरदि भवम् । शरद् + “सन्धिवेला- द्यृतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् ।)
श्वेतकमलम् । इति राजनिर्घण्टः ॥ (यथा, महाभारते । २ । ६१ । ३४ । “शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया । शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥”)
शस्यम् । इति मेदिनीशब्दरत्नावल्यौ ॥


शब्दकल्पद्रुमः

शारदः || त्रि (शरदि भवः । शरद् + अण् ।)
शरज्जातः । (यथा, मनौ । ६ । ११ । “वासन्तशारदैर्मेघैर्मुन्यन्नैः स्वयमाहृतैः ॥”)
नूतनः । अप्रतिभः । इति मेदिनी ॥ शालीनः । इति विश्वः ॥


शब्दकल्पद्रुमः

शारदः || पुं, (शरद् + अण् ।)
कासः । वकुलः । हरिन्मुद्गः इति राजनिर्घण्टः ॥ वत्सरः । इति मेदिनी ॥ पीतमुद्गः । इति हेमचन्द्रः ॥ रोगः । इति सिद्धान्तकौमुदी



Correction: