संस्कृत-शब्दकोशः

शारद शारदिक

शारदा

शब्दकल्पद्रुमः

शारदा || स्त्री सरस्वती । इति त्रिकाण्डशेषः ॥ (यथा, महिम्नस्तोत्रे । “लिखति यदि गृहीत्वा शारदा सर्व्वकालम् ॥”)
दुर्गा । (यथा, भागवते । १० । २ । १२ ॥ “माया नारायणीशानी शारदेत्यम्बिकेति च ॥”)
अस्या व्युत्पत्तिर्यथा, —
“शरत्काले पुरा यस्मात् नवम्यां बोधिता सुरैः । शारदा सा समाख्याता पीठे लोके च नामतः ॥” इति तिथ्यादितत्त्वम् ॥ वीणाविशेषः । इति शब्दरत्नावली ॥ ब्राह्मी । सारिवा । इति राजनिर्घण्टः ॥



Correction: