वाचस्पत्यम्
शारि(री) || स्त्री शॄ—इञ् वा ङीप् । १ पाशकादिगुटिकायां २ अक्षोपकरणे च मेदि० । ३ पक्षिभेदे च “शारीं चरन्तीं सखि! भारयेति” नैषधम् । ४ युद्धार्थगजपर्थ्याणे ५ व्यवहारभेदे मेदि० । ६ कपटे धरणिः । स्वार्थे क । पक्षिभेदे वीणावादने च हेमच० ।
शब्दकल्पद्रुमः
शारिः || पुं, (शॄ हिंसायाम् + इञ् ।)
अक्षोप- करणम् । पाशकादेर्बलम् । गुटिका । इति मेदिनी ॥ तत्पर्य्यायः । शारः २ खेलनी ३ । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
शारिः || स्त्री (शॄ + “श्रः शकुनौ ।” उणा० ४ । १२७ । इति इञ् ।)
शकुनिकाभेदः । युद्धार्थ- गजपर्य्याणम् । व्यवहारान्तरम् । इति मेदिनी ॥ कपटः । इति धरणिः ॥