शब्दकल्पद्रुमः
शारिका || स्त्री (शारिरेव । स्वार्थे कन् ।)
पक्षि- विशेषः । मयना इति भाषा । तत्पर्य्यायः । पीतपादा २ गोराटी ३ गोकिराटिका ४ । इति हेमचन्द्रः ॥ सारिका ५ शारी ६ चित्र- लोचना ७ शारिः ८ । इति शब्दरत्नावली ॥ मदनशारिका ९ शलाका १० । इति जटा- धरः ॥ वीणादिवादनम् । तत्पर्य्यायः । कोणः २ । इति हेमचन्द्रः ॥