संस्कृत-शब्दकोशः

शारिका शारिफलक

शारिफल

वाचस्पत्यम्

शारिफल ||‍ पु० न० शारेः फलमिवाधारः । शारिफलके पाश- कक्रीडासाधने २ द्रव्ये (छक) अमरः स्वार्थे क । तत्रैव ।


शब्दकल्पद्रुमः

शारिफलं || क्ली पुं, (शारीणां खेलनीनां कलम् ।)
शारिपट्टः । शारिखेलनाधारः । छक् इति भाषा । तत्पर्य्यायः । अष्टापदम् २ । इत्यमरः ॥ फलकः ३ । इति शब्दरत्नावली ॥ आकर्षः ४ शारिफलकः ५ बिन्दुतन्त्रः ६ अक्षपीठी ७ । इति जटाधरः ॥



Correction: