वाचस्पत्यम्
शारीरिक || त्रि० शरीरे भवः ठक् । देहजाते दुःखादौ ।
शब्दकल्पद्रुमः
शारीरिकः || त्रि (शरीर + ठक् ।)
शरीर- सम्बन्धि । तत्पर्य्यायः । कालेवरिकः २ गात्रिकः ३ वापुषिकः ४ सांहननिकः ५ वार्ष्मिकः ६ वैग्रहिकः ७ कायिकः ८ दैहिकः ९ मौर्त्तिकः १० तानविकः ११ । इति अमरोक्तशरीर- पर्य्यायशब्दात् ष्णिकप्रत्ययेन निष्पन्नमिदम् ॥