संस्कृत-शब्दकोशः

शारीर शारीरिक

शारीरक

शब्दकल्पद्रुमः

शारीरकं || क्ली (शरीरमेव शारीरं कुत्सितत्वात् तन्निवासी शारीरको जीवस्तमधिकृत्य कृतो ग्रन्थः । शारीरक + अण् ।)
वेदव्यासकृतवेदान्त- मीमांसासूत्रम् । यथा । तथा च वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । वेदान्त- मीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम् । अथातो ब्रह्मजिज्ञासेति । इति शङ्कर- भाष्यम् ॥ (शरीरमेव शरीरकं तत्र भवम् । शरीरक + अण् । शरीरभवे, त्रि । यथा, भागवते । ३ । ३१ । १९ । “पश्यत्ययं धियणया ननु सप्तवध्रिः शारीरके दमशरीर्य्यपरः स्वदेहे ॥”)



Correction: