वाचस्पत्यम्
शार्कर || त्रि० शर्करा अस्त्यस्य अण् । १ शर्करायुक्ते देशे शर्क- राया विकारः अण् । २ फाणिते ३ दुग्यफेणे च पु० मेदि० । शर्करीछन्दोऽस्य अण् । शर्करीछन्दोयुक्ते ४ मन्त्रादौ ।
शब्दकल्पद्रुमः
शार्करः || पुं, दुग्धफेनः । (शर्करास्त्यत्रेति । शर्करा + “देशे लुबिलचौ च ।” ५ । २ । १०५ । इति अण् ।)
शर्करान्वितदेशः । इति मेदिनी ॥ शर्करासम्बन्धिनि, त्रि ॥ (शर्करेव । “शर्करा- दिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् । शर्करा- सदृशम् ॥ इति काशिका ॥ * ॥
“सिकताशर्क- राभ्यां च ।” ५ । २ । १०४ । इति अणि शर्करा- विशिष्टञ्च ॥ यथा, शार्करं मधु ।” इति च काशिका ॥)