वाचस्पत्यम्
शार्ङ्गिन् || पु० शार्ङ्गः अस्त्यस्य इनि । १ विष्णौ अमरः । २ धन्विमात्रे त्रि० ।
शब्दकल्पद्रुमः
शार्ङ्गी || [न्] पुं, (शार्ङ्गमस्यास्तीति । शार्ङ्ग + इनिः ।)
विष्णुः । इत्यमरः ॥ (यथा, रघुः । १२ । ७० । “स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥”)
धन्विमात्रम् । इति शार्ङ्गशब्दार्थदर्शनात् ॥