संस्कृत-शब्दकोशः

शार्ङ्गिन् शार्दूलललित

शार्दूल

वाचस्पत्यम्

शार्दूल ||‍ पुंस्त्री० शॄ—जलञ् दुकच । १ व्याथ्रभेदे अमरः । २ पशुभेदे ३ शरभे ४ राक्षसभेदे च मेदि० उत्तरपदस्थः । ५ श्रेष्ठार्थे अमरः । ६ पक्षिभेदे धरणिः ७ चित्रके राजनि० । स्त्रियां सर्वत्र जातित्वे ङीष् ।


शब्दकल्पद्रुमः

शार्द्दूलः || पुं, (शॄ हिंसायाम् + “खर्ज्जिपिञ्जादिभ्य ऊरोलचौ ।” उणा० ४ । ९० । इति ऊलच् प्रत्ययेन साधुः ।)
व्याघ्रः । उत्तरपदे श्रेष्ठार्थ- वाचकः । इत्यमरः ॥ राक्षसः । पशुभेदः । स तु सरभः । इति मेदिनी ॥ पक्षिविशेषः । इति धरणिः ॥ चित्रकः । इति राजनिर्घण्टः ॥



Correction: