संस्कृत-शब्दकोशः

शार्दूलविक्रीडित शार्वरी

शार्वर

वाचस्पत्यम्

शार्वर ||‍ न० शवर्य्या इदं शैषिश्चोऽण् । १ अत्यन्ततमसि । २ घातुके च त्रि० मेदि० । ३ रात्रिसम्बन्धिनि त्रि० । “शार्वरस्य तमसो निषिद्धये” किरा० भवार्थे तु कालाङ् ठञ्” शार्वरिक इत्येव रात्रिभवे ।


शब्दकल्पद्रुमः

शार्व्वरं || क्ली अन्धतमसम् । घातुके, त्रि । इति मेदिनी ॥ (शर्व्वर्य्या इदम् । शर्व्वरी + अण् ।)
शर्व्वरीसम्बन्धिनि, त्रि ॥



Correction: