संस्कृत-शब्दकोशः

शालग्राम शालङ्कटङ्कट

शालग्रामगिरि

वाचस्पत्यम्

शालग्रामगिरि ||‍ पु० पर्वतभेदे वराहपु० “कथयिष्यामि ते गुह्यं शालग्राममिति श्रुतम् । तस्मिन् क्षेत्रे हरो देवो मत्स्वरूपेण संयुतः । शालग्रामे गिरौ तस्मिन् शिला- रूपेण तिष्ठति । अहं तत्रैव तिष्ठामि शिलारूपेण नि- त्यदा । तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा न संशयः । पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः । लिङ्गरू- पेण तु हरस्तत्र देवालये गिरौ । शिवनामाः शिला- स्तत्र चक्रनाभास्तथा शिलाः । सोमेश्वराधिष्ठितस्तु शिव- रूपो गिरिः स्मृतः । शालग्रामगिरिर्विष्णुरहं सोमेश्वरा- भिधः” वराहपु० ।


शब्दकल्पद्रुमः

शालग्रामगिरिः || पुं, (शालग्रामस्य गिरिः ।)
शालग्रामोत्पादकपर्व्वतः । यथा, — वाराह उवाच । “कथयिष्यामि ते गुह्यं शालग्राममिति श्रुतम् । तस्मिन् क्षेत्रे हरो देवो मत्स्वरूपेण संयुतः ॥ शालग्रामे गिरौ तस्मिन् शिलारूपेण तिष्ठति । अहं तिष्ठामि तत्रैव गिरिरूपेण नित्यदा ॥ तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा न संशयः । पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः ॥ लिङ्गरूपेण तु हरस्तत्र देवालये गिरौ । शिवनाभाः शिलास्तत्र चक्रनाभास्तथा शिलाः ॥ सोमेश्वराधिष्ठितस्तु शिवरूपो गिरिः स्मृतः । शालग्रामगिरिर्विष्णुरहं सोमेश्वराधिपः ॥ तयोः पर्व्वतयोर्यो वै शिला विष्णुशिलाभिधाः ॥ रेवया च कृतं पूर्व्वं तपः शिवसुतुष्टिदम् । मम त्वत्सदृशः पुत्त्रो भूयादभिहितो तया ॥ अहं कस्यापि न सुतः किं करिष्यामि चिन्त- यन् । रेवायाखु वरो देयस्त्ववश्यं मृगलाञ्छन । निश्चित्यैवं तदा प्रोक्तं प्रसन्नेनान्तरात्मना ॥ लिङ्गरूपेण ते देवि गजाननपुरस्कृतः । गर्भे तव वसिष्यामि पुत्त्रो भूत्वा शिवप्रिये ॥ मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा । शिवशक्तिविभेदेन आवामेकत्र संस्थितौ ॥ एवं दत्तवरा रेवा मत्सान्निध्यमिहागता । रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते ॥ * ॥
गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधे । शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम् ॥ दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा । ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः ॥ उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः । गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितेऽनघे ॥ अनवच्छिन्नया शक्त्या वरं वरय सुव्रते । किं देयं तद्बदस्वाशु प्रीतोऽस्मि वरवर्णिनि ॥ गण्डक्यपि पुरो दृष्ट्वा शङ्खचक्रगदाधरम् । दण्डवत् प्रणता भूत्वा ततः स्तोत्रं प्रचक्रमे ॥ अहो देव मया दृष्टो दुर्दर्शो योगिनामपि । त्वया सर्व्वमिदं सृष्टं जगत् स्थावरजङ्गमम् ॥ ततो हिमांशे सा देवी गण्डकी लोकतारिणी । प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत् ॥ यदि देव प्रसन्नोऽसि देयो मे वाञ्छितो वरः । मम गर्भगतो भूत्वा विष्णो मत्पुत्त्रतां व्रज ॥ ततः प्रसन्नो भगवान् चिन्तयामास गोपते । किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया ॥ दास्यामि याचितं येन लोकानां भवमोक्षणम् । इत्येवं कृपया देवो निश्चित्य मनसा स्वयम् ॥ गण्डकीं कथयामास शृणु देवि वचो मम । शालग्रामशिलारूपी तव गर्भगतः सदा ॥ तिष्ठामि तव पुत्त्रत्वे भक्तानुग्रहकारणात् । मत्सान्निध्यान्नदीनां त्वमतिश्रेष्ठा भविष्यसि ॥ दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवावगा- हनात् । हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ॥” इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति- क्षेत्रत्रिवेण्यादिमहिमानामाध्यायः ॥



Correction: