संस्कृत-शब्दकोशः

शालपर्णी शालभञ्जी

शालभञ्जिका

वाचस्पत्यम्

शालभञ्जिका ||‍ स्त्री शालेन भज्यते निर्मीयते भन्ज—ण्वुल् । १ काष्ठनिर्मितपुत्तलिकायां, २ वेश्यायाञ्च जटा० ।


शब्दकल्पद्रुमः

शालभञ्जिका || स्त्री (शालेन भज्यते निर्म्मीयते इति । भन्ज + “क्वुन् शिल्पिसंज्ञयोरपूर्व्वस्यापि ।” उणा० २ । ३२ । इति क्वुन् । टापि अत इत्वम् ।)
काष्ठादिनिर्म्मितपुत्त्रिका । (यथा, राजतरङ्गि- ण्याम् । २ । ६६ । “अलोलकीर्त्तिकल्लोलदुकूलवसनोज्ज्वलाम् । बभार यद्भुजस्तम्भो जयश्रीशालभञ्जिकाम् ॥”)
वेश्या । इति जटाधरः ॥



Correction: