संस्कृत-शब्दकोशः

शालार शालि

शालावृक

वाचस्पत्यम्

शालावृक is an alternate of सालावृक. सा(शा)लावृक ||‍ पुंस्त्री० सालाया वृक इव । कुक्कुरे । स्त्रियां ङीष् ।


वाचस्पत्यम्

शालावृक ||‍ पुंस्त्री० शालायां गृहे, शाखायां वा वृक इव वा । १ कुक्कुरे २ शृगाले अमरः । ३ विडाले ४ मृगे राजनि० ५ वानरे च शब्दच० । सर्वत्र स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

शालावृकः || पुं, (शालायां गृहे शाखायां वा वृक इव ।)
वानरः । कुक्कुरः । शृगालः । इत्यमरः ॥ मृगः । इति शब्दरत्नावली । विडालः । इति राजनिर्घण्टः ॥



Correction: