शब्दकल्पद्रुमः
शाली || [न्] त्रि, (शालास्यास्तीति । इनिः ।)
शालाविशिष्टः । पदान्ते युक्तवाचकः । यथा, —
“चन्दनचर्च्चितनीलकलेवरपीतवसनवनमाली । केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मित- शाली ॥” इति जयदेवः ॥ (श्लाघ्यः । यथा, भागवते । ३ । २४ । १ । “दायालुः शालिनीमाह शुक्लाभिर्व्याहृतं स्मरन् ॥”)