वाचस्पत्यम्
शालीन || त्रि० शालामर्हति स्य । १ धृष्टे अलज्जे, अमरः । २ मिश्रेयायां स्त्री राजनि० ।
शब्दकल्पद्रुमः
शालीनः || त्रि (शालाप्रवेशनमर्हतीति । शाला + “शालीनकौपीने अधृष्टाकार्य्ययोः ।” ५ । २ । २० । इति खञ्प्रत्ययेन निपातनात् सिद्धम् ।)
अधृष्टः । इत्यमरः ॥ (यथा, मार्कण्डेये । ४१ । ९ । “अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ॥”)
शालासम्बन्धी च ॥