वाचस्पत्यम्
शालोत्तरीय || पु० शालोत्तरे ग्रामे भवः छ । पाणिनिमुनौ जटा० ।
शब्दकल्पद्रुमः
शालोत्तरीयः || पुं, (शालोत्तरे ग्रामे भवः । शालो- त्तर + छः ।) पाणिनिमुनिः । इति त्रिकाण्ड- शेषः ॥