वाचस्पत्यम्
शाल्मल || पु० शाल—मलच् । (शिमुल) १ वृक्षे शब्दर० २ तच्चि- ह्नितद्वीपभेदे च विष्णुपु० “शाल्मस्येश्वरोधीरो वपुष्माँस्तत्सुतान् शृणु । तेषान्तु नामसञ्चारैः सप्त वर्षाणि तानि वै । श्वेतोऽत्र हरित- श्चैव जीमूतो लोहितस्तथा । वैद्युतो मानसश्चैव सुप्र- भश्च महामुने! । शाल्मलेन समुद्रोऽसौ द्वीपे- नेक्षुरसोदकः । विस्तरोद्विगुणेनायं सर्वतः संवृतः स्थितः । तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । रसाभिव्यञ्ज- कास्ते तु तथा सप्तैव निम्नगाः । कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः । कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु । योनितो या वितृष्णा च चन्द्रा शुक्ला विमोचनी । निवृत्तिः सप्त- मी तासां स्मृतास्ताः पापशान्तिदाः । श्वेतञ्च लोहित- ञ्चैव जीमूत हरितं तथा । वैद्युतं मानसञ्चैव सु- प्रभं नाम सप्तभम् । सप्तैतानि तु वर्षाणि चातुवर्ण्ययु- तानि वै । शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने! । कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् । ब्रा- ह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम । भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । वायुभूत मखश्रेष्ठै- र्यज्विनो यज्ञसंस्थितिम् । देवानामत्र सान्निध्यमत्रैव सुमनोरमे । शाल्मलिश्च महावृक्षो नाम निर्वृतिका- रकः । एष द्वीपः समुद्रेण सुरोदेन समावृतः” ।
शब्दकल्पद्रुमः
शाल्मलः || पुं, शाल्मलीवृक्षः । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । ३ । ६४ । ३ । “अर्ज्जनारिष्टसञ्छन्नं स्यन्दनैश्च सशाल्मलैः ॥”)
द्वीपविशेषः । इति शब्दमाला ॥ तद्बिवरणं यथा, —
“अत ऊर्द्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत । शाल्मलो द्बिगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् ॥ परिवार्य्य समुद्रन्तु दधिमण्डोदकं स्थितः । तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः ॥ कुत एव सुदुर्भिक्षं क्षमातेजोयुता हि ते । प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्व्वतः ॥ पीतस्तु मध्यमस्तत्र शातकौम्भमयो गिरिः । नाम्ना सर्व्वसुखो नाम दिव्यौषधिसमन्वितः ॥ तृतीयश्चैव सौवर्णो भृङ्गपत्रनिभो गिरिः । स नाम्ना रोहितो नाम दिव्यो गिरिवरो महान् ॥ सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः । रोहितस्तु तृतीयस्तु रोहिणी नाम विश्रुतः ॥ तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः । प्रजापतिमुपादाय प्रसन्नो विधिवत् स्वयम् ॥ न तत्र नद्यो वर्षं वा शीतोष्णञ्चैव तद्विधम् । वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते ॥ न गृहं न च दण्डोऽस्ति ईर्ष्यासूया भयं तथा । उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च ॥ भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् । अधमोत्तमो न तेष्वस्ति न लोभो न परिग्रहः ॥ अरोगा बलवन्तश्च एकान्तसुखिताः प्रजाः । त्रिंशद्बर्षसहस्राणि मानसीं सिद्धिमास्थिताः ॥ स्वस्वमायुःस्वरूपञ्च धर्म्मैश्वर्य्यं तथैव च । शाल्मलाद्येषु विज्ञेयं द्वीपेषु त्रिषु सर्व्वशः ॥ व्याख्यातः शाल्मलाद्यानां द्वीपानान्तु विधिः शुभः । परिमण्डलस्तु स द्वीपश्चक्रवत् परिवेष्टितः । सुरोदेन समुद्रेण द्विगुणेन समन्वितः ॥” इति मत्स्यपुराणे भुवनकोषे सप्तद्वीपनिवेशनं नाम १०० अध्यायः ॥ * ॥
अपि च । “प्लक्षद्बीपप्रमाणात्तु द्विगुणेन समन्ततः । संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ सप्त वर्षाणि तत्रैव तत्रैव कुलपर्व्वताः । ऋज्वायताः सुपर्व्वाणः सप्त नद्यश्च सुव्रताः ॥ कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः । द्रोणः कर्णस्तु महिषः ककुद्वान् सप्त पर्व्वताः ॥ योनितोषा विभृष्टा च चन्द्रा शुक्ला विमोचनी । निवृत्तिश्चेति ता नद्यः स्मृताः पापहराः शिवाः ॥ न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः । न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ यजन्ति सततं तत्र वर्णा वायुं सनातनम् । तेषां तस्याथ सायुज्यं स्वारूप्यञ्च सलोकताम् ॥ कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा । पीता वैश्यास्तथा कृष्णा द्बीपेऽस्मिन् वृषला द्विजाः ॥” इति कौर्म्मे भुवनविन्यासे ४६ अध्यायः ॥ * ॥
मोचरसः । इति रत्नमाला ॥