संस्कृत-शब्दकोशः

शाल्मल शाल्मलिक

शाल्मलि

वाचस्पत्यम्

शाल्मलि is an alternate of शल्मलि. श(शा)ल्मलि ||‍ पु० शल—मलच् स्वार्थे इन् इञ् वा । शाल्- मलिवृक्षे (शिमुल) द्विरूपकीषः स्त्रीत्वमपि तत्र ना ङीप् तत्रार्थे ।


वाचस्पत्यम्

शाल्मलि(ली) ||‍ पुं स्त्री० शाल—मलिच् वा स्त्रोत्वे वा ङीप् । (शिमुल) १ वृक्षे २ मोचरसे हेमच० । शाल्मलिगुणादिकं भावप्र० उक्तं यथा “शाल्मली शीतला स्वच्छा रसे पाके रसायनी । शे- ष्मला स्निग्धवीजा च वृ हणो रक्तपित्तजित् । शाल्मली- पुष्पशाकन्तु धृतसैन्धवसाधितम् । प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः । रसे पाके च मधुरं कषायं शातलं गुरु । कफपित्तास्रजित् ग्राहि वातलं च प्रको- र्त्तितम् । ३ नरकभेदे यत्र शाल्मलीकण्ठकैर्नारकिणः पीड्यन्ते नरकशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

शाल्मलिः || पुं, स्त्री, वृक्षविशेषः । शिमुल इति भाषा ॥ (यथा मनौ । ८ । ४६ । “शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद- पान् ॥”)
तत्पर्य्यायः । पिच्छिला २ पूरणी ३ मोचा ४ स्थिरायुः ५ । इत्यमरः ॥ दुरारोहा ६ शाल्म- लिनी ७ शाल्मलः ८ । इति शब्दरत्नावली ॥ तुलिनी ९ कुक्कुटी १० रक्तपुष्पा ११ कण्ट- कारी १२ मोचनी १३ । इति जटाधरः ॥ चिरजीवी १४ पिच्छिलः १५ रक्तपुष्पकः १६ तूलवृक्षः १७ मोचाख्यः १८ कण्टकद्रुमः १९ रक्तोत्पलः २० रम्यपुष्पः २१ बहुवीर्य्यः २२ यमद्रुमः २३ दीर्घद्रुमः २४ स्थूलफलः २५ दोर्घायुः २६ । इति राजनिर्घण्टः ॥ कण्ट- काष्ठः २७ । इति भावप्रकाशः ॥ अस्य गुणाः । पिच्छिलत्वम् । वृष्यत्वम् । बल्यत्वम् । मधु- रत्वम् । शीतलत्वम् । कषायत्वम् । लघुत्वम् । स्निग्धत्वम् । शुक्रश्लेष्मवर्द्धनत्वञ्च । तद्रसगुणाः । ग्राहित्वम् । कषायत्वम् । कफनाशित्वञ्च ॥ तत्पुष्पं फलञ्च तद्विधम् । इति राजनिर्घण्टः । “शाल्मली शीलता स्वाद्वी रसे पाके रसायनी । श्लेष्मला स्निग्धबीजा च वृंहणी रक्तपित्तजित ॥ शाल्मलीपुष्पशाकन्तु घृतसैन्धवसाधितम् । प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः ॥ रसे पाके च मधुरं कषायं शीतलं गुरु । कफपित्तास्रजिद्ग्राहि वातलञ्च प्रकीर्त्तितम् ॥” इति भावप्रकाशः ॥ * ॥
नरकविशेषः । तत्र शाल्मलिकण्टकैः पीड्यन्ते ॥



Correction: