वाचस्पत्यम्
शाल्वण || पु० “काकोल्यादिः स वातघ्नः सर्वाम्लद्रव्यसंयुतः । सानुपोदकमांसस्तु सर्वाम्लैश्च समन्वितः । स चोष्णः स्पष्ट लवणः शाल्वणः परिकीर्त्तितः” सुश्रुतोक्ते ओषधभेदे ।
शब्दकल्पद्रुमः
शाल्वणः || पुं, वातघ्नौषधगणविशेषः । यथा, —
“काकोल्यादिः स वातघ्नः सर्व्वाम्लद्रव्यसंयुतः । सानूपोदकमांसस्तु सर्व्वस्नेहसमन्वितः ॥ सुखोष्णः स्पष्टलवणः शाल्वणः परिकीर्त्तितः । तेनीपनाहं कुर्व्वीत सर्व्वदा वातरोगिणाम् ॥” इति सुश्रुते चिकित्सितस्थाने ५ अध्यायः ॥