वाचस्पत्यम्
शाव || पु० शव—घञ् । १ शिशौ शब्दर० । स्वार्थे क । तत्रैव शवस्येदम् अण् । २ शवसम्बद्धे त्रि० “त्रिरात्रं शावमा- शौचम्” इति स्मृतिः ।
शब्दकल्पद्रुमः
शावः || पुं, (शव्यते प्राप्यते इति । शव गतौ + घञ् ।)
शिशुः । इति शब्दरत्नावली ॥ (यथा रघुवंशे । ६ । ३ । “शिलाविभङ्गैर्मृगराजशावः तुङ्गं नगोत्सङ्गमिवारुरोह ॥” शवस्यायम् । शव + अण् ।)
शवसम्बन्धिनि, त्रि ॥ यथा, —
“ग्रहणे शावमाशौचं विमुक्तो सौतिकं स्मृतम् । तयोः सम्पत्तिमात्रेण उपस्पृश्य क्रियाक्रमः ॥” इति तिथ्यादितत्त्वे ब्रह्माण्डपुराणम् ॥