संस्कृत-शब्दकोशः

शांशपायन शाष्कुल

शाश्वत

वाचस्पत्यम्

शाश्वत ||‍ त्रि० शथद् भवः अण् । सतते नित्ये अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

शाश्वतं || त्रि (शश्वद्भवम् । शश्वत् + अण् ।)
नित्यम् । इत्यमरः ॥ (यथा, रामायणे । १ । २ । १५ । “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”)
पारिभाषिकशाश्वतं यथा, —
“शाश्वतं देवपूजादि विप्रदानञ्च शाश्वतम् । शाश्वतं सगुणा विद्याः सुहृन्मित्रञ्च शाश्वतम् ॥” इति गारुडे नीतिसागरे १०९ अध्यायः ॥


शब्दकल्पद्रुमः

शाश्वतः || पुं, वेदव्यासः । इति शब्दरत्नावली ॥ (शिवः । यथा महाभारते । १३ । १७ । ३२ । “प्रवृत्तिश्च निवृत्तिश्च नियतः श्वाश्वतो ध्रुवः ॥”)



Correction: