वाचस्पत्यम्
शासनहर || पु० शाससं हरति हृ—अच् । आज्ञाहारके दूते ।
शब्दकल्पद्रुमः
शासनहरः || पुं, (हरतीति । हृ + अच् । शास- नस्य हरः ।) राजदूतः । आज्ञावाहकः । इति केचित् ॥