शब्दकल्पद्रुमः
शासितः || त्रि (शास + क्तः ।) कृतशासनः । यथा, “सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य्य यत् कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥” इति पञ्चरत्नम् ॥