वाचस्पत्यम्
शासितृ || त्रि० शाम—तृच् इट् । शासगकर्त्तरि ।
शब्दकल्पद्रुमः
शासिता || [ऋ] त्रि, (शासु + तृच् ।)
शास्ता । इति त्रिकाण्डशेषः ॥ (यथा, मनौ । ७ । १७ । “स राजा पुरुषो दण्डः स नेता शासिता च सः ॥” व्याख्याता । यथा, तत्रैव । २ । १५० । “ब्राह्मस्य जन्मनः कर्त्ता स्वधर्म्मस्य च शासिता ॥”)