वाचस्पत्यम्
शास्तृ || त्रि० शास—तृच् इडभावः । १ शासनकर्त्तरि त्रिका० । २ बुद्धे अमरः ३ उपाध्याये ४ नृपे ५ पितरि संक्षिप्तसा० ।
शब्दकल्पद्रुमः
शास्ता || [ऋ] त्रि, (शासु + “तृन्तृचौ शंसीति ।” उणा० २ । ९४ । इति असंज्ञायामपि तृन् । स च अनिट् ।)
शासनकर्त्ता । तत्पर्य्यायः । देशकः २ शासिता ३ । इति त्रिकाण्डशेषः ॥ यथा, —
“द्वौ धाता च विधाता च पौराणौ जगतः पती । द्वौ शास्तारौ त्रिलोकेऽस्मिन् धर्म्माधर्म्मौ प्रकी- र्त्तितौ ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (यथा च भागवते । १ । १२ । २६ । “राजर्षीणां जनयिता शास्ता चोत्पथगामि- नाम् ॥”)
शब्दकल्पद्रुमः
शास्ता || [ऋ] पुं, (शासु + “तृन्तृचौ शसिक्ष- दादिभ्यः संज्ञायां चानिटौ ।” उणा० २ । ९४ । इति तृन् । स च अनिट् ।)
बुद्धः । इत्यमरः ॥ उपाध्यायः । राजा । पिता । इति संक्षिप्त- सारोणादिवृत्तिः ॥