शब्दकल्पद्रुमः
शास्त्रज्ञः || त्रि (शास्त्रं जानातीति । ज्ञा + कः ।) शास्त्रवेत्ता । यथा, — “अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥” इति व्यवहारतत्त्वधृतनारदवचनम् ॥