वाचस्पत्यम्
शास्त्रशिल्पिन् || त्रि० शास्त्रं तज्ज्ञानं शिल्पमिवाऽस्त्यस्य इनि । १ शास्त्रज्ञानोपजीविनि २ काश्मीरदेशे पु० त्रिका० ।
शब्दकल्पद्रुमः
शास्त्रशिल्पी || [न्] पुं, (शास्त्रं शिल्पमस्यास्तीति । इनिः ।)
काश्मीरदेशः । तद्देशस्थे, पुं भूम्नि । इति त्रिकाण्डशेषः ॥