संस्कृत-शब्दकोशः

शास्त्रीय शि

शास्य

वाचस्पत्यम्

शास्य ||‍ त्रि० शास—ण्यत् । अनुशासनीये शिष्यादौ ।


शब्दकल्पद्रुमः

शास्यः || त्रि (शास् + ण्यत् ।)
शासनीयः । शासितव्यः । (यथा, मनौ । ८ । १९१ । “यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥” शिक्षणीयः । यथा, ऋग्वेदे । १ । १८९ । ७ । “अभिपित्ते मनवे शास्यो भूः ।” “शास्यो भूः शिक्षणीयो भव इदं कुरु इदं कुरु इति विधेयो भव ।” इति तद्भाष्ये सायणः ॥)



Correction: