वाचस्पत्यम्
शिक्षा || स्त्री शिक्ष—भावे अ । १ अभ्यासे २ वर्णानामुच्चारणप्रदर्शके वेदाङ्गे ३ ग्रन्थभेदे अमरः । ४ श्योनाकवृक्षे शब्दच० । “वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा तथा च तैत्तिरीया उपनिषदारम्भे समामनन्ति । शिक्षां व्याख्यास्यामः । वर्णः स्वरः मात्रा बलं साम सन्तान इ- त्युक्तं शिक्षाध्याय इति” ऋ० भा० । “अथ शिक्षां प्रवक्ष्यामि पाणिनीयमतं यथा । शास्त्रानुपूर्वं तद्विद्याद् यथोक्तं लोकवेदयोः । प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् । त्रिषष्टि- श्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः । प्राकृते सस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा । स्वरा विंशतिरेकश्च स्प- र्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः । अनुस्वारो विसर्गश्च + कुँपौ चापि प- राश्रितौ । दुःष्पृष्टश्चेति विज्ञेय ऌकारः प्लुत एव च । आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तू- रसि चरन्मन्त्रं जनयति स्वरम् । प्रातःसवनयोगन्तं छन्दोगायत्रभाश्रितम् । कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टुभानुगम् । तारं तार्त्तीयसवनं शीर्षण्यं जागता- नुगम् । सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः । स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः । इति वर्ण- विदः प्राहुर्निपुणास्तं निबोधत । उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लत इति कालतो नियमा अचि । उदात्ते निषादगान्धारावनुदात्ते ऋषभ धैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः । अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वा- मूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च । ओभावश्च विवृत्तश्च स—ष—सारेफ एव च । जिह्वामूलमुपा- ध्मानं गतिरष्टविधोष्मणः । यद्योभागप्रसन्धानमुकारादि परं पदम् । खरान्तं तादृशं विद्याद् यदन्यद्व्यक्तमूष्मणः । हकारं पञ्चमैर्युक्तभन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् । कण्ठ्यावहावि- चुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋटुर- षा—दन्त्या ऌ—तु—ल—साः स्मृताः । जिह्वामूले तु कुः प्रोक्तो दन्त्यौष्ठ्यो वः स्मृतो बुधैः । एऐ तु कण्ठता- लव्यावोऔ कण्ठौष्ठजौ स्मृतौ । अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयो- र्मात्रा तयोर्विवृतसंवृतम् । संवृतं मात्रकं ज्ञेयं बिवृतन्तु द्विमात्रकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः । स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च । अनुखार- यमानाञ्च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः । अलावुवीणानिर्घोषो दन्त्यमूल- स्तराननु । अनुस्वारस्तु कर्त्तव्यो नित्यं ह्रोः शषसेषु च । अनुस्वारो विवृत्यस्तु विरामे चाक्षरद्वये । द्वि- रोष्ठ्यौ तु विगृह्णीयाद् यत्रैकारवकारयोः । व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत् । भीतापतनभे- दाभ्यां तद्वत् वर्णान् प्रयोजयेत्” । “अचोऽस्पष्टायणस्त्वी- षन्नेमस्पृष्टाः शलस्तथा । शेषाः स्पृष्टाहलः प्रोक्ता निबोधानुप्रदानतः । यमोऽनुनासिका न ह्रौ नादिनो हऋषः स्मृताः” । “ईषन्नादाय नञ्जश्च श्वासिनश्च कफादयः । ईषच्छ्वासां- श्चरो बिद्यात् गोर्द्धामैतत् प्रचक्षते । दाक्षीपुत्रपाणिनिना येनेदं व्यापितं भुवि । छन्दःपादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमु च्यते । शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमंधोव्यैव ब्रह्मलोके महीयते” । “मन्त्रोहीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वा- ग्वज्रं यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपरा धात् । “अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् । अक्षता शस्त्ररूपेण वज्रं पतति मस्तके । हस्तहीनन्तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्द्दग्धो वियोनिमधिगच्छति” पाणिनिशिक्षा । नारदशिक्षा व्यासशिक्षादयो ग्रन्याः सन्ति विस्तरभयान्नोक्ताः ।
शब्दकल्पद्रुमः
शिक्षा || स्त्री (शिक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः । ततष्टाप् ।)
शिक्षणम् । श्योनाकवृक्षः । इति शब्दमाला ॥ वेदाङ्गशास्त्रविशेषः । इत्य- मरः ॥ यथा, —
“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गणः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥” इति । तत्र अकारादिवर्णानां स्थलकरणप्रयत्नबोधिका अ-कु-ए-ह-विसर्ज्जनीयाः कण्ठ्या इत्यादिका शिक्षा । इति तट्टीकायां भरतः ॥ * ॥
* ॥
अथ शिक्षाशास्त्रं लिख्यते । “अथ शिक्षां प्रवक्ष्यामि पाणिनीयमतं यथा । शास्त्रानुपूर्व्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ अनुस्वारो विसर्गश्च ᳲकᳲपौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयः ऌकारः प्लुत एव च ॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । प्रातःसवनयोगन्तं छन्दो गायत्त्रमाश्रितम् ॥ कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टुभानुगम् । तारं तार्त्तीयसवनं शीर्षण्यं जागतानुगम् ॥ सोदीर्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ उदात्ते निषादगन्धारावनुदात्ते ऋषभधैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ॥ ओभावश्च विवृत्तिश्च श-ष-सा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ यद्योभावप्रसन्धानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमुष्मणः ॥ हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ॥ कण्ठ्यावहा वि-चु-य-शास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋ-टु-र-षा दन्त्या ऌ-तु-ल-साः स्मृताः ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ स्मृतौ ॥ अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ संवृतं मात्रिकं ज्ञेयं विवृतन्तु द्बिमात्रिकम् । घोषा वा संवृताः सर्व्वे अघोषा विवृताः स्मृताः ॥ स्वराणामुष्मणाञ्चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥ अनुस्वारयमाणाञ्च नासिकास्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ अलावुवीणानिर्घोषो दन्त्यमूल्यस्वराननु । अनुस्वारस्तु कर्त्तव्यो नित्यं ह्रोः श-ष-सेषु च ॥ अनुस्वारे विवृत्यान्तु विरामे चाक्षरद्वये । द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रैकारवकारयोः ॥ व्याघ्री यथा हरेत् पुत्त्रान् दंष्ट्राभ्यां न च पीड- येत् । भीता पतनभेदाभ्यां तद्बद्वर्णान् प्रयोजयेत् ॥ यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते । एवं रङ्गाः प्रयोक्तव्याः खेअ-राँ इव खेदया ॥ रक्तवर्णं प्रयुञ्जीरन् नो ग्रसेत् पूर्व्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात् पश्चान्नासिक्यमाचरेत् ॥ हृदये चैकमात्रः स्यादर्द्धमात्रस्तु मूर्द्धनि । नासिकायां तथार्द्धञ्च रङ्गस्यैवं द्विमात्रता ॥ हृदयादुत्करे तिष्ठन् कांस्येन समनुस्वरम् । मार्दवञ्च द्विमात्रञ्च जघर्न्वा इति निदर्शनम् ॥ मध्ये तु कम्पयेत् कम्पमुभौ पार्श्वौ समौ तथा । स रङ्गं कम्पयेत् कम्पं रथीवेति निदर्शनम् ॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडयेत् । सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥ गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ माधुर्य्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य्यं लयसमर्थश्च षडेते पाठका गुणाः ॥ शङ्कितं भीतमुद्घृष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसि गतं तथा स्थानविवर्ज्जितम् ॥ उपांशुदुष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरञ्च वदेन्न दीनं न तु सानुनास्यम् ॥ प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्द्दूलरुतोपमेन । मध्यं दिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन ॥ तारन्तु विद्यात् सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ अचोऽस्पृष्टा यणस्त्वीषन्नमस्पृष्टाः श-रस्तथा । शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥ यमोऽनुनासिका न ह्रो नादिनो ह-झषः स्मृताः । ईषन्नादा यणो जश्च श्वासिनश्च खफादयः ॥ ईषच्छ्वासांश्चरो विद्यात् गोर्द्धामैतत् प्रचक्षते । दाक्षीपुत्त्रः पाणिनिना येनेदं व्यापितं भुवि ॥ छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्द्धा । उपान्तमध्ये स्वरितं धृतञ्च कनिष्ठिकायामनुदात्तमेव ॥ उदात्तं प्रदेशिनीं विद्यात्प्रचयं मध्यतोङ्गुलिम् । निहतन्तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ अन्तोदात्तमाद्युदात्तमुदात्त- मनुदात्तं नीचस्वरितम् । मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नव पदशय्या ॥ अग्निः सोमः प्र वो वीर्य्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती । अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्र इत्यु- दात्तं व इत्यनुदात्तं वीर्य्यं नीचस्वरितम् ॥ हविषां मध्योदात्तं स्वरिति स्वरितम् । बृहस्पति- रिति द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥ अनुदात्तो हृदि ज्ञेयो मूर्द्ध्न्युदात्त उदाहृतः । स्वरितः कर्णमूले तु सर्व्वास्ये प्रचयः स्मृतः । चाषस्तु बदते मात्रां द्विमात्रन्त्वेव वायसः । शिखी रौति त्रिमात्रन्तुं नकुलस्त्वर्द्धमात्रकम् ॥ कुतीर्थादागतं दग्धमपवर्णञ्च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्वि- षात् ॥ सुतीर्थादागतं व्यक्तं साम्नाय्यं सुव्यवस्थितम् । सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ अनक्षरं हतायुष्यं विखरं व्याधिपीडितम् । अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥ हस्तहीनन्तु योऽधीते स्वरवर्णविवर्ज्जितम् । ऋग्यजुःसामभिर्द्दग्धो वियोनिमधिगच्छति ॥ हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥ शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्त्राय धीमते । वाङ्मयेभ्यः समाहृत्य दैवीं वाचमिति स्थितिः ॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ त्रिनयनमुखनिःसृतामिमां य इह पठेत् प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्त्रकीर्त्तिमा- नतुलञ्च सुखं समश्नुते दिवीति दिवीति ॥ अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा सौराष्ट्रिका । गीत्यचोस्पृष्टोदात्तं चाषस्तु शङ्कर एकादश ॥” इति वेदशिक्षासमाप्तिम- गमत् ॥ * ॥
अपि च । अग्निरुवाच । “वक्ष्ये शिक्षां त्रिषष्टिः स्युर्व्वर्णा वा चतुरा- धिकाः । स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ॥ यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः । अनुस्वारो विसर्गश्च ᳲकᳲपौ चापि परा- श्रितौ ॥ दुःस्पृष्टश्चति विज्ञेयः ऌकारः प्लुत एव च । रङ्गश्च खे अराँ इव हकारः पञ्चमैर्युतः ॥ अन्तःस्थाभिः समायुक्तः औरस्यः कण्ठ्य एव सः । आत्मा बुद्ध्या समेत्यार्थं मनो युङ्क्ते विवक्षया ॥ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन्मन्त्रं जनयति स्वरम् ॥ प्रातःसवनयोगन्तं छन्दो गायत्त्रमाश्रितम् । कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टभानुगम् ॥ तारं तार्त्तीयसवनं शीर्षण्यं जगतानुगम् । सोदीर्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः ॥ वर्णान् जनयते तेषां विभागाः पञ्चधा स्मृताः । स्वरः कालगतः स्थानात् प्रयत्नानुप्रदानतः ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ ओ-भावश्च विवृत्तिश्च श-ष-सा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ यद्योभावप्रसन्धानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्यात् यदन्यद्ब्यक्तमुष्मणः ॥ कुतीर्थादागतं दग्धमपवर्णञ्च भक्षितम् । एवमुच्चारणं पापमेवमुच्चारणं शुभम् ॥ सुतीर्थादागतं द्रव्यं स्नानार्थं सुव्यवस्थितम् । सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजत ॥ न करालो न लम्बोष्ठो नाव्यक्तो नानुनासिकः । गद्गदाबद्धजिह्वश्च न वर्णान् वक्तुमर्हति ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ कण्ठ्यावहा वि-चु-य-शास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋ-टु-र-षा दन्त्या ऌ-तु-ल-साः स्मृताः ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । एऐ तु कण्ठ्यतालव्यौ ओ औ कण्ठ्योष्ठजौ स्मृतौ ॥ अर्द्धमात्रा तु कण्ठ्या स्यात् एकारैकारयोर्भवेत् । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ अचोऽस्पृष्टा यणस्त्वीषन्नमस्पृष्टाः शरः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्तो निबोधानुप्रदानतः ॥ यमोऽनुनासिका न ह्रो नादिनो ह झषः स्मृताः । ईषन्नादा यणो जश्च श्वासिनश्च खफादयः । ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत् प्रचक्षते ॥” इत्याग्नेये महापुराणे शिक्षानिरूपणं नाम ३३६ अध्यायः ॥