वाचस्पत्यम्
शिखण्ड || पु० शिखाममति अम—ड तस्य नेत्त्वम्, ६ त० । शक० वा । १ मयूरपिच्छे अमरः । २ चूडायाञ्च मेदि० ।
शब्दकल्पद्रुमः
शिखण्डः || पुं, मयूरपुच्छः । इत्यमरः ॥ यथा, —
“शिखण्डोऽस्त्री पिच्छवर्हे शिखिपुच्छशिख- ण्डके ।” इति शब्दरत्नावली ॥ (यथा, महाभारते । १२ । २८१ । ५८ । “वृत्रस्य रुधिराच्चैव शिखण्डाः पार्थ जज्ञिरे । द्विजातिभिरभक्षास्ते दीक्षितैश्च तपोधनैः ॥”)
चूडा । इति मेदिनी ॥