वाचस्पत्यम्
शिखण्डक || पु० शिखण्ड इव कन् । १ काकपक्षे अमरः । (काणजुल्पी) स्त्रीत्वमपि तत्र । सा च २ चूडायाञ्च हेमच० ।
शब्दकल्पद्रुमः
शिखण्डकः || पुं, (शिखण्ड इव । कन् ।)
काक- पक्षः । इत्यमरः । जुल्पी इति भाषा । “द्बे क्षत्त्रियकुमाराणां शिखात्रये । उक्तञ्च । ‘बालानाञ्च शिरः कार्य्यं त्रिंशिखं मुण्डमेव चेति ।’ शिखापञ्चके इत्यन्ये । सामान्येन चूडाया- मित्यन्ये । काकपक्षाकारत्वात् काकपक्षः । शिरसि खण्डते शिखण्डकः मनीषादिः ताल- व्यादिः । शिखण्डे तु शिखावर्हे इति तालव्यादौ रभसः । शिखाण्डकश्च । शिखण्डकशिखाण्डका- विति वाचस्ततिः ।” इति तट्टीकायां भरतः ॥ (यथा, रघुः । ११ । ५ । “तौ पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावुभौ । धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥”)
मयूरपुच्छे, क्ली च ॥ इति शब्दरत्नावली ॥