शिखातरु
शिखाधार
शिखाधर
वाचस्पत्यम्
शिखाधर || पुंस्त्री० शिखां चूडां धरति धृ—अच् । १ मयूरे रत्नमा० स्त्रियां ङीष् । २ शिखाधारके त्रि० स्त्रियां टाप् । ३ मञ्जुधोषे पु० त्रिका० ।
शब्दकल्पद्रुमः
शिखाधरः || पुं, (शिखाया धरः ।)
मयूरः । इति शब्दमाला ॥ मञ्जुघोषः । इति त्रिकाण्ड- शेषः ॥