शिखिग्रीव
शिखिनी
शिखिध्वज
वाचस्पत्यम्
शिखिध्वज || शिखिनो वह्नेर्ध्वज इव । १ धूमे त्रिका० । शिखी मयूरोध्वजो यस्य । २ कार्त्तिकेये शब्दच० ।
शब्दकल्पद्रुमः
शिखिध्वजः || पुं, (शिखिनो वह्नेर्ध्वज इव ।)
धूमः । इति त्रिकाण्डशेषः ॥ (शिखी मयूरो ध्वजो यस्य ।)
कार्त्तिकेयः । इति शब्दरत्नावली ॥