वाचस्पत्यम्
शिखिन् || पु० शिखा अस्त्यस्य इनि । १ मयूरे २ वह्नौ ३ चित्र- कवृक्षे अमरः । ४ केतुग्रहे ५ कुक्कुटे ६ वृक्षे ७ वृषे ८ शरे च मेदि० । ९ अश्वे हेमच० १० अजलोम्नि रत्नमा० ११ पर्वते १२ ब्राह्मणे १३ सितावरे १४ मेथिकायां राजनि० १५ शि खायुक्ते त्रि० १६ मयूरशिखावृक्षे राजनि० स्त्री ङीप् ।
शब्दकल्पद्रुमः
शिखी || [न्] पुं, (शिखास्यास्तीति । शिखा + “व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।)
मयूरः । (यथा, बृहत्संहितायाम् । ३ । २८ । “शिखिपत्रनिभः सलिलं न करोति द्बाद- शाब्दानि ॥”)
अग्निः । (यथा, महाभारते । ४ । ५१ । ९ । “खड्गी च धन्वी च विभाति पार्थः शिखी वृतः स्रुग्भिरिवाज्यसिक्तः ॥”)
चित्रकवृक्षः । इत्यमरः । बलीवर्द्दः । शरः । केतुग्रहः । द्रुमः । कुक्कुटः । इति मेदिनी ॥ घोटकः । इति हेमचन्द्रः ॥ अजलोमा । इति रत्नमाला ॥ सितावरः । मेथिका । इति राज- निर्घण्टः ॥ पर्व्वतः । ब्राह्मणः । दीपः । इति केचित् ॥ शिखायुक्ते, त्रि । इति मेदिनी ॥