वाचस्पत्यम्
शिखिमोदा || स्त्री शिखिनः अजलोम्र इव मोदो यस्याः । अजमोदायां राजनि० ।
शब्दकल्पद्रुमः
शिखिमोदा || स्त्री (शिखिनं मोदयतीति । मुद् + णिच् + अच् । टाप् ।) अजमोदा । इति राजनिर्घण्टः ॥