वाचस्पत्यम्
शिखिव्रत || न० “प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः । वैश्वानरपटं याति शिखिव्रतमिदं स्मृतम्” गरुपु० १२९ अ० उक्ते वह्निपददायके व्रतभेदे ।
शब्दकल्पद्रुमः
शिखिव्रतं || क्ली (शिखिनो व्रतम् ।)
व्रतविशेषः । यथा, — ब्रह्मोवाच । “वक्ष्ये प्रतिपदादीनि व्रतानि व्यास श्रूयताम् । प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः । वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम् ॥” इति गारुडे १२९ अध्यायः ॥