शिज
शिञ्जित
शिञ्जा
वाचस्पत्यम्
शिञ्जा || स्त्री शिजि—भावे अ । १ भूषणशब्दे शब्दर० । शिजि- अच् । २ धनुर्गुणे हेमच० ।
शब्दकल्पद्रुमः
शिञ्जा || स्त्री (शिजि अव्यक्तशब्दे + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः । टाप् ।)
भूषण- शब्दः । इति शब्दरत्नावली ॥ धनुर्गुणः । इति हेमचन्द्रः ॥