वाचस्पत्यम्
शितशूक || पु० शितस्तीक्ष्णः शूकोऽग्रं यस्य । १ यवे अमरः । २ गोधूमे त्रिका० ।
शब्दकल्पद्रुमः
शितशूकः || पुं, (शितं निशितं शूकं यस्य ।) यवः । इत्यमरः ॥ दन्त्यादिरित्येके इति भरतः ॥ गोधूमः । इति त्रिकाण्डशेषः ॥