संस्कृत-शब्दकोशः

शिताग्र शितिकण्ठ

शिति

वाचस्पत्यम्

शिति ||‍ पु० शि—क्तिच् । १ भुजपत्त्रवृक्षे २ शुक्लवर्णे ३ कृष्णवर्णे च मेदि० ४ तद्वर्णवति त्रि० । ५ सारे पु स्त्री० शब्दर० ।


शब्दकल्पद्रुमः

शितिः || त्रि (शतिः सौत्रो धातुः + “क्रमि- तमिशतिस्तम्भामत इच्च ।” उणा० ४ । १२१ । इति इन् । स च कित् । अत इकारश्च ।)
शुक्त्रः । कृष्णः । (यथा, माघे । १५ । ४८ । “शितितारकानुमितताम्र- नयनमरुणीकृतं क्रुधा ॥”)
भूर्जवृक्षे, पुं । इति मेदिनी ॥ यथा चे । “शितिस्त्रिषु सिते कृष्णे भूर्जे सारेऽपि च द्वयोः ।” इति शब्दरत्नावली ॥



Correction: