वाचस्पत्यम्
शितिकण्ठ || पु० शितिः नोलः कण्ठो यस्य । १ शिवे अमरः २ दात्यूहविहगे पुंस्त्री० त्रिका० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
शितिकण्ठः || पुं, (शितिः कण्ठे यस्य ।)
शिवः । इत्यमरः ॥ (यथा, भागवते । ४ । ३ । १२ । यासां व्रजद्भिः शितिकण्ठ ! मण्डितं नभो विमानैः कलहंसपाण्डुभिः ॥”)
दात्यूहपक्षी । इति त्रिकाण्डशेषः ॥)
यथा, महाभारते । १ । ९० । ६ । “यदा तु तान् वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः ॥”)